१४) गुणत्रय विभाग योग (अध्याय १४)



श्लोक १:

श्रीभगवानुवाच |
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् |
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः || १४.१ ||


श्लोक २:

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः |
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च || १४.२ ||


श्लोक ३:

मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् |
संभवः सर्वभूतानां ततो भवति भारत || १४.३ ||


श्लोक ४:

सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः |
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता || १४.४ ||


श्लोक ५:

सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः |
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् || १४.५ ||


श्लोक ६:

तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् |
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ || १४.६ ||


श्लोक ७:

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् |
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् || १४.७ ||


श्लोक ८:

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् |
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत || १४.८ ||


श्लोक ९:

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत |
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत || १४.९ ||


श्लोक १०:

रजस्तमश्चाभिभूय सत्त्वं भवति भारत |
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा || १४.१० ||


श्लोक ११:

सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते |
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत || १४.११ ||


श्लोक १२:

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा |
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ || १४.१२ ||


श्लोक १३:

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च |
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन || १४.१३ ||


श्लोक १४:

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् |
तदोत्तमविदां लोकानमलान्प्रतिपद्यते || १४.१४ ||


श्लोक १५:

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते |
तथा प्रलीनस्तमसि मूढयोनिषु जायते || १४.१५ ||


श्लोक १६:

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् |
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् || १४.१६ ||


श्लोक १७-१८:

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च |
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च || १४.१७ ||
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः |
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः || १४.१८ ||


श्लोक १९-२०:

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति |
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति || १४.१९ ||
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् |
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते || १४.२० ||


श्लोक २१:

अर्जुन उवाच |
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो |
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते || १४.२१ ||


श्लोक २२:

श्रीभगवानुवाच |
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव |
न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति || १४.२२ ||


श्लोक २३:

उदासीनवदासीनो गुणैर्यो न विचाल्यते |
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते || १४.२३ ||


श्लोक २४:

समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः |
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः || १४.२४ ||


श्लोक २५:

मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः |
सर्वारम्भपरित्यागी गुणातीतः स उच्यते || १४.२५ ||


श्लोक २६:

मां च योऽव्यभिचारेण भक्तियोगेन सेवते |
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते || १४.२६ ||


श्लोक २७:

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च |
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च || १४.२७ ||


अध्याय १३ 👈 👉अध्याय १५